|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.102. अध्यायः 102
Mahabharata - Ashvamedhika Parva - Chapter Topics
कृष्णेन युधिष्ठिरंप्रति भूगोतिलकन्यादानफलप्रतिपादनम्॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
भगवानुवाच।
अतः परं प्रवक्ष्यामि भूमिदानमनुत्तमम्॥ 14-102-1(95768)
यः प्रयच्छति विप्राय भूमिं रम्यां सदक्षिणाम्।
श्रोत्रियाय दरिद्राय साग्निहोत्राय पाण्डव॥ 14-102-2(95769)
स सर्वकामतृप्तात्मा सर्वरत्नविभूषितः।
सर्वपापविनिर्मुक्तो दीप्यमानोऽर्कवत्सदा॥ 14-102-3(95770)
बालसूर्यप्रकाशेन विचित्रध्वजशोभिना।
याति यानेन दिव्येन मम लोकं महायशाः॥ 14-102-4(95771)
तत्र दिव्याङ्गनाभिस्तु सेव्यमानो यथासुखम्।
कामगः कामरूपी च क्रीडत्यप्सरसांगणैः॥ 14-102-5(95772)
यावद्बिभर्ति लोकान्वै भूमिः कुरुकुलोद्वह।
तावद्भूमिप्रदः काले मम लोके महीयते॥ 14-102-6(95773)
न हि भूमिप्रदानाद्वै दानमन्यद्विशिष्यते।
न चापि भूमिहरणात्पापमान्यद्विशिष्यते॥ 14-102-7(95774)
दानान्यन्यानि हीयन्ते कालेन कुरुपुङ्गव।
भूमिदानस्य पुण्यस्य क्षयो नैवोपपद्यते॥ 14-102-8(95775)
ब्राह्मणाय दरिद्राय भूमिं दत्तां तु यो नरः।
न हिंसति नरव्याघ्र तस्य पुण्यफलं शृणु॥ 14-102-9(95776)
सप्तद्वीपसमुद्रान्ता रत्नसंचयसंकुला।
सशैलवनदुर्गाढ्या तेन दत्ता मही भवेत्॥ 14-102-10(95777)
भूमिं दृष्ट्वा दीयमानां श्रोत्रियायाग्निहोत्रिणे।
सर्वभूतानि मन्यन्ते मां ददातीति हर्षवत्॥ 14-102-11(95778)
सुवर्णमणिरत्नानि धनानि च वसूनि च।
सर्वदानानि वै राजन्ददाति वसुधां ददत्॥ 14-102-12(95779)
सागरान्सरितः शैलान्समानि विषमाणि च।
सर्वगन्धरसांश्चैव ददाति वसुधां ददत्॥ 14-102-13(95780)
ओषधीः फलसंपन्ना नानापुष्पसमन्विताः।
कमलोत्पलषण्डांश्च ददाति वसुधां ददत्॥ 14-102-14(95781)
धर्मं कामं तथा चार्थं वेदान्यज्ञांस्तथैव च।
स्वर्गमार्गगतिं चैव ददाति वसुधां ददत्॥ 14-102-15(95782)
अग्निष्टोमादिभिर्यज्ञैर्ये यजन्ते सदक्षिणैः।
न तत्फलं लभन्ते ते भूमिदानस्य यत्फलम्॥ 14-102-16(95783)
श्रोत्रिया महीं दत्त्वा यो न हिंसति पाण्डव।
तद्दानं कथयिष्यन्ति यावल्लोकाः प्रतिष्ठिताः।
तावत्स्वर्गोपभोगानां भोक्तारः पाण्डुनन्दन॥ 14-102-17(95784)
सस्यपूर्णां महीं यस्तु श्रोत्रियाय प्रयच्छति।
पितरस्तस्य तृप्ययन्ति यावदाभूतसंप्लुवम्॥ 14-102-18(95785)
मम रुद्रस्य सवितुस्त्रिदशानां तथैव च।
प्रीतये विद्धि राजेन्द्र भूमिर्दत्ता द्विजाय वै॥ 14-102-19(95786)
तेन पुण्येन पूतात्मा दाता भूमेर्युधिष्ठिर।
मम सालोक्यमाप्नोति नात्र कार्या विचाराणा॥ 14-102-20(95787)
यत्किंचित्कुरुते पापं पुरुषे वृत्तिकर्शितः।
स च गोकर्णमात्रेण भूमिदानेन शुध्यति॥ 14-102-21(95788)
मासोपवासे यत्पुण्यं कृच्छ्रे चान्द्रायणेऽपि च।
भूमिगोकर्णमात्रेण तत्पुण्यं तु विधीयते॥ 14-102-22(95789)
सर्वतीर्थाभिषेके च यत्पुण्यं समुदाहृतम्।
भूमिगोकर्णमात्रेण तत्पुण्यं तु विधीयते॥ 14-102-23(95790)
युधिष्ठिर उवाच। 14-102-24x(7953)
देवदेव नमस्तेऽस्तदु वासुदेव सुरेश्वर।
गोकर्णस्य प्रमाणं वै वक्तुमर्हसि तत्वतः॥ 14-102-24(95791)
भगवानुवाच। 14-102-25x(7954)
शृणु गोकर्णमात्रस्य प्रमाणं पाण्डुनन्दन।
त्रिंशद्दण्डप्रमाणेन प्रमितं सर्वतो दिशम्॥ 14-102-25(95792)
प्रत्यक्प्रागपि राजेन्द्र तत्तथा दक्षिणोत्तरम्।
गोकर्णं तद्विदः प्राहुः प्रमाणं धरणेर्नृप॥ 14-102-26(95793)
सवृषं गोशतं यत्र सुखं तिष्ठत्ययन्त्रितम्।
सवत्सं कुरुशार्दूल तच्च गोकर्णमुच्यते॥ 14-102-27(95794)
किंकरा मृत्युदण्डाश्च कुंभीपाकाश्च दारुणाः।
घोराश्च वारुणाः पाशा नोपसर्पन्ति भूमिदम्॥ 14-102-28(95795)
निरया रौरवाद्याश्च तथा वैतरणी नदी।
तीव्राश्च यातनाः कृष्टा नोपसर्पन्ति भूमिदम्॥ 14-102-29(95796)
चित्रगुप्ताः कलिः कालः कृतान्तो मृत्युरेव च।
यमश्च भगवान्साक्षात्पूजयन्ति महीप्रदम्॥ 14-102-30(95797)
रुद्रः प्रजापतिः शक्रः सुरा ऋषिगणास्तथा।
अहं च प्रीतिमान्राजन्पूजयामो महीप्रदम्॥ 14-102-31(95798)
कृशभृत्यस्य कृशगोः कृशाश्वस्य कृतातिथेः।
भूमिर्देया नरश्रेष्ठ स निधइः पारलौकिकः॥ 14-102-32(95799)
सीदमानकुटुंबाय श्रोत्रियायाग्निहोत्रिणे।
व्रस्थाय दरिद्राय भूमिर्देया नराधिप॥ 14-102-33(95800)
यथा हि धात्री क्षीरेण पुत्रं वर्धयति स्वयम्।
दातारमनुगृह्णाति दत्ता ह्येवं वसुंधरा॥ 14-102-34(95801)
यथा बिभर्ति गौर्वत्सं सृजन्ती क्षीरमात्मनः।
तथा सर्वगुणोपेता भूमिर्वहति भूमिदम्॥ 14-102-35(95802)
यथा बीजनि रोहन्ति जलसिक्तानि भूपते।
तथा कामाः प्ररोहन्ति भूमिदस्य दिनेदिने॥ 14-102-36(95803)
यथा तेजस्तु सूर्यस्य तमः सर्वं व्यपोहति।
तथा पापं नरस्येह भूमिदानं व्यपोहति॥ 14-102-37(95804)
दाता दशानुगृह्णाति यो हरेद्दश हन्ति च।
अतीतान्यागतानीह कुलानि कुरुपुङ्गव॥ 14-102-38(95805)
आश्रुत्य भूमिदानं तु दत्त्वा यो वा हरेन्पुनः।
स बद्धो वारुणैः पाशैः क्षिप्यते पूयशोणिते॥ 14-102-39(95806)
स्वदत्तां परदत्तां वा यो हरेत् वसुंधराम्।
न तस्य नरकाद्धोराद्विद्यते निष्कृतिः क्वचित्॥ 14-102-40(95807)
ब्राह्म्णस्य हृते क्षेत्रे हन्याद्द्वादश पूर्वजान्।
स गच्छेत्कृमियोनिं च न च मुच्येत जातु सः॥ 14-102-41(95808)
दत्त्वा भूमिं द्विजेन्द्राय यस्तामेवोपजीवति।
गवां शतसहस्रस्य हन्तुः स लभते फलम्॥ 14-102-42(95809)
सोधश्शिरास्तु पापात्मा कुंभीपाकेषु पच्यते।
दिव्यैर्वर्षसहस्रैस्तु कुंभीपाकाद्विजनिस्सृतः।
इह लोके भवेत्स श्वा रातजन्मनि पाण्डव॥ 14-102-43(95810)
दत्त्वा भूमि द्विजेन्द्राणां यस्तामेवोपजीवति।
स मूढो याति दुष्टात्मा नरकानेकविंशतिम्।
नरकेभ्यो विनिर्मुक्तः शुनां योनिं स गच्छति॥ 14-102-44(95811)
हलकृष्टा मही देया सबीजा सस्यमालिनी।
अथवा सोदका देया दरिद्राय द्विजातये॥ 14-102-45(95812)
एवं दत्ता मही राजन्प्रहृष्टेनान्तरात्मना।
सर्वान्कामानवाप्नोति मनसा चिन्तितानि च॥ 14-102-46(95813)
बहुभिर्वसुधा दत्ता दीयते च नराधिपैः।
यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम्॥ 14-102-47(95814)
यः प्रयच्छति कन्यां वै सुरूपां श्रोत्रियाय वै।
स ब्रह्मदेयो राजेन्द्र तस्य पुण्यफलं शृणु॥ 14-102-48(95815)
बलीवर्दसहस्राणां दत्तानां धुर्यवाहिनाम्।
यत्पुण्यं लभते राजन्कन्यादानेन तत्फलम्॥ 14-102-49(95816)
गवां शतसहस्रस्य सम्यग्धत्तस्थ यत्फलम्।
तत्फलं समवाप्नोतिः यः प्रयच्छति कन्यकाम्॥ 14-102-50(95817)
यावन्ति चैव रोमाणि कन्यायाः कुरुपुङ्गव।
तावद्वर्षसहस्राणि मम लोके महीयते॥ 14-102-51(95818)
ततश्चापि च्युतः कालादिह लोके स जायते।
षडङ्गविच्चतुर्वेदी सर्वलोकार्चितो द्विजः॥ 14-102-52(95819)
यः सुवर्णं दरिद्राय ब्राह्मणाय प्रयच्छति।
श्रोत्रियाय सुवृत्ताय बहुपुत्राय पाण्डव॥ 14-102-53(95820)
स मुक्तः सर्वपापेभ्यो बालसूर्यसमप्रभः।
विमानं दिव्यामारूढः कामगः कामभोगवान्॥
वर्षकोटिं महातेजा मम लोके महीयते॥ 14-102-54(95821)
ततः कालावतीर्णश्च सोस्मिँल्लोके हि जायते।
वेदवेदाङ्गविद्विप्रः कोटीधनपतिर्भवेत्॥ 14-102-55(95822)
यश्च रूप्यं प्रयच्छेद्वै दरिद्राय द्विजातये।
कृशवृत्तेः कृशगवे स मुक्तः सर्वकिल्बिषैः॥ 14-102-56(95823)
पूर्णचन्द्रप्रकाशेन विमानेन विराजता।
कामरूपि यथाकामं स्वर्गलोके महीयते॥ 14-102-57(95824)
ततोऽवतीर्णः कालेन लोके चास्मिन्महायशाः।
सर्वलोकार्चितः श्रीमान्राजा भवति वीर्यवान्॥ 14-102-58(95825)
तिलपर्वतकं यस्तु श्रोत्रियाय प्रयच्छति।
विशेषेण दरिद्राय तस्यापि शृणु यत्फलम्॥ 14-102-59(95826)
पुण्यं वृषायुतोत्सर्गे यत्प्रोक्तं पाण्डुनन्दन।
तत्पुण्यं समनुप्राप्य तत्क्षणाद्विरजा भवेत्॥ 14-102-60(95827)
यथा त्वचं भुजङ्गो वै त्यक्त्वा शुद्धतनुर्भवेत्।
तता तिलप्रदानाद्वै पापं त्यक्त्वा विसुद्ध्यति॥ 14-102-61(95828)
तिलषण्डं प्रयुञ्जानो जांबूनदविभूषितम्।
विमानं दिव्यमारूढः पितृलोके महीयते॥ 14-102-62(95829)
षष्टिं वर्षसहस्राणि कामरूपी महायशाः।
तिलप्रदाता रमते पितृलोके यथासुखम्॥ 14-102-63(95830)
यः प्रयच्छति विप्राय तिलधेनुं नराधिप।
श्रोत्रियाय दरिद्राय शृणु तस्यापि यत्फलम्॥ 14-102-64(95831)
गोसहस्रप्रदानेन यत्पुण्यं समुदाहृतम्।
तत्पुण्यफलामाप्नोति तिलधेनुप्रदो नरः॥ 14-102-65(95832)
तिलानां कुडवैर्यस्तु तिलधेनुं प्रयच्छति।
तावत्कोटिसमा राजन्स्वर्गलोके महीयते॥ 14-102-66(95833)
अष्टाढकतिलैः कृत्वा तिलधेनु नराधिप।
द्वात्रिंशन्निष्कसंयुक्तं विषुवे यः प्रयच्छति।
मद्भक्त्या मद्गतात्मा वै तस्य पुण्यफलं शृणु॥ 14-102-67(95834)
कन्यादानसहस्रस्य विधिदत्तस्य यत्फलम्।
तत्पुण्यं समनुप्राप्तो मम लोके महीयते॥ 14-102-68(95835)
मम लोकावतीर्णश्च सोस्मिँल्लोकेऽभिजायते।
ऋग्यजुस्सामवेदानां पारगो ब्राह्मणर्षभः॥ 14-102-69(95836)
गां तु यस्तु दरिद्राय श्रोत्रियाय प्रयच्छति।
प्रसन्नां क्षीरिणीं पुण्यां सवत्सां कांस्यदोहिनीं॥ 14-102-70(95837)
यत्किंचिद्दुष्कृतं कर्म तस्य पूर्वकृतं नृपः।
तत्सर्वं तत्क्षणादेव विनश्यति न संशयः॥ 14-102-71(95838)
यानं च वृषसंयुक्तं दीप्यमानं स्वलङ्कृतम्।
आरूढः कामगं दिव्यं गोलोकमधिगच्छति॥ 14-102-72(95839)
यावन्ति चैव रोमाणि तस्या गोस्तु नराधिप।
तावद्वर्षसहस्राणि गवां लोके महीयते॥ 14-102-73(95840)
गोलोकादवतीर्णस्तु लोकेऽस्मिन्ब्राह्मणो भवेत्।
सत्रयाजी वदन्यश्च सर्वराजभिरर्चितः॥ 14-102-74(95841)
तिलं गावः सुवर्णं चाप्यन्नं कन्या वसुंधरा।
तारयन्तीह दत्तानि ब्राह्मणेभ्यो महाभुज॥ 14-102-75(95842)
ब्राह्मणं वृत्तसंपन्नमाहिताग्निमलोलुपम्।
तर्पयेद्विधिवद्राजन्स निधिः पारलौकिकः॥ 14-102-76(95843)
आहिताग्नि दरिद्रं च श्रोत्रियं च जितेन्द्रियम्।
शूद्रान्नवर्जितं चैव द्विजं यत्नेन पूजयेत्॥ 14-102-77(95844)
आहिताग्निः सदा पात्रमह्निहोत्री च वेदवित्।
पात्राणामपि तत्पात्रं शूद्रान्नं यस्य नोदरे॥ 14-102-78(95845)
यच्च वेदमयं पात्रं यच्च पात्रं तपोमयम्।
असंकीर्णं च यत्पात्रं तत्पात्रं तारयिष्यति॥ 14-102-79(95846)
नित्यस्वाध्यायनिरतास्त्वसंकीर्णेन्द्रियाश्च ये।
पञ्चयज्ञपरा नित्यं पूजितास्तारयन्ति ते॥ 14-102-80(95847)
ये क्षान्तिदान्ताः श्रुतिपूर्णकर्णा
जितेन्द्रियाः प्राणिवधै निवृत्ताः।
प्रतिग्रहे संकुचिता गृहस्था-
स्ते ब्राह्मणास्तारयितुं समर्थाः॥ 14-102-81(95848)
नित्योदकी नित्ययज्ञोपवीती
नित्यस्वाध्यायी वृषलान्नवर्जी।
क्रतौ गच्छन्विधिवच्चापि जुह्व-
त्स ब्राह्मणस्तारयितुं समर्थः॥ 14-102-82(95849)
ब्राह्मणो यस्तु मद्भक्तो मद्रागी मत्परायणः।
मयि संन्यस्तकर्मा च स विप्रस्तारयेद्ध्रुवम्॥ 14-102-83(95850)
द्वादशाक्षरतत्वज्ञश्चतुर्व्यूहविभागवित्।
अच्छिद्रपञ्चकालज्ञःक स विप्रस्तारयिष्यति॥ ॥ 14-102-84(95851)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि द्व्यधिकशततमोऽध्यायः॥ 102 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|